ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - स्वराडार्षी पङ्क्तिः

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

स्व॒र्गं लो॒कम॒भि नो॑ नयासि॒ सं जा॒यया॑ स॒ह पु॒त्रैः स्या॑म। गृ॒ह्णामि॒ हस्त॒मनु॒ मैत्वत्र॒ मा न॑स्तारी॒न्निरृ॑ति॒र्मो अरा॑तिः ॥

स्वर सहित पद पाठ

स्व॒ःऽगम् । लो॒कम् । अ॒भि । न॒ः । न॒या॒सि॒ । सम् । जा॒यया॑ । स॒ह । पु॒त्रैः । स्या॒म॒ । गृ॒ह्णामि॑ । हस्त॑म् । अनु॑ । मा॒ । आ । ए॒तु॒ । अत्र॑ । मा । न॒ः । ता॒री॒त् । निःऽऋ॑तिः । मो इति॑ । अरा॑तिः ॥३.१७॥


स्वर रहित मन्त्र

स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम। गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन्निरृतिर्मो अरातिः ॥


स्वर रहित पद पाठ

स्वःऽगम् । लोकम् । अभि । नः । नयासि । सम् । जायया । सह । पुत्रैः । स्याम । गृह्णामि । हस्तम् । अनु । मा । आ । एतु । अत्र । मा । नः । तारीत् । निःऽऋतिः । मो इति । अरातिः ॥३.१७॥