atharvaveda/12/2/7

यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्। तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ॥

य: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । न॒: । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् । तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दू॒रम् । स: । घ॒र्मम् । इ॒न्धा॒म् । प॒र॒मे । स॒धऽस्थे॑ ॥२.७॥

ऋषिः - भृगुः

देवता - अग्निः

छन्दः - जगती

स्वरः - यक्ष्मारोगनाशन सूक्त

स्वर सहित मन्त्र

यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्। तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ॥

स्वर सहित पद पाठ

य: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । न॒: । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् । तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दू॒रम् । स: । घ॒र्मम् । इ॒न्धा॒म् । प॒र॒मे । स॒धऽस्थे॑ ॥२.७॥


स्वर रहित मन्त्र

यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्नितरं जातवेदसम्। तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥


स्वर रहित पद पाठ

य: । अग्नि: । क्रव्यऽअत् । प्रऽविवेश । न: । गृहम् । इमम् । पश्यन् । इतरम् । जातऽवेदसम् । तम् । हरामि । पितृऽयज्ञाय । दूरम् । स: । घर्मम् । इन्धाम् । परमे । सधऽस्थे ॥२.७॥