ऋषिः - भृगुः

देवता - अग्निः

छन्दः - भुरिगार्षीपङ्क्तिः

स्वरः - यक्ष्मारोगनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने। पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥

स्वर सहित पद पाठ

पुन॑ः । त्वा॒ । आ॒दि॒त्याः । रु॒द्राः । वस॑वः । पुन॑ः । ब्र॒ह्मा । वसु॑ऽनीतिः । अ॒ग्ने॒ । पुन॑ः । त्वा॒ । ब्रह्म॑णः । पति॑ः । आ । अ॒धा॒त् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥२.६॥


स्वर रहित मन्त्र

पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने। पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥


स्वर रहित पद पाठ

पुनः । त्वा । आदित्याः । रुद्राः । वसवः । पुनः । ब्रह्मा । वसुऽनीतिः । अग्ने । पुनः । त्वा । ब्रह्मणः । पतिः । आ । अधात् । दीर्घायुऽत्वाय । शतऽशारदाय ॥२.६॥