ऋषिः - भृगुः

देवता - अग्निः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - यक्ष्मारोगनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑। अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥

स्वर सहित पद पाठ

अ॒हो॒रा॒त्रे इति॑ । अनु॑ । ए॒षि॒ । बिभ्र॑त् । क्षे॒म्यः । तिष्ठ॑न् । प्र॒ऽतर॑णः । सु॒ऽवीर॑ः । अना॑तुरान् । सु॒ऽमन॑सः । त॒ल्प॒ । बिभ्र॑त् । ज्योक् । ए॒व । न॒ः । पुरु॑षऽगन्धिः ।‍ ए॒धि॒ ॥२.४९॥


स्वर रहित मन्त्र

अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन्प्रतरणः सुवीरः। अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥


स्वर रहित पद पाठ

अहोरात्रे इति । अनु । एषि । बिभ्रत् । क्षेम्यः । तिष्ठन् । प्रऽतरणः । सुऽवीरः । अनातुरान् । सुऽमनसः । तल्प । बिभ्रत् । ज्योक् । एव । नः । पुरुषऽगन्धिः ।‍ एधि ॥२.४९॥