atharvaveda/12/2/45
ऋषिः - भृगुः
देवता - अग्निः
छन्दः - जगती
स्वरः - यक्ष्मारोगनाशन सूक्त
जी॒वाना॑म् । आयु॑: । प्र । ति॒र॒ । त्वम् । अ॒ग्ने॒ । पि॒तॄ॒णाम् । लो॒कम् । अपि॑ । ग॒च्छ॒न्तु॒ । ये । मृ॒ता: । सु॒ऽगा॒र्ह॒प॒त्य: । वि॒ऽतप॑न् । अरा॑तिम् । उ॒षाम्ऽउ॒षाम् । श्रेय॑सीम् । धे॒हि॒ । अ॒स्मै ॥२.४५॥
जीवानाम् । आयु: । प्र । तिर । त्वम् । अग्ने । पितॄणाम् । लोकम् । अपि । गच्छन्तु । ये । मृता: । सुऽगार्हपत्य: । विऽतपन् । अरातिम् । उषाम्ऽउषाम् । श्रेयसीम् । धेहि । अस्मै ॥२.४५॥