ऋषिः - भृगुः

देवता - अग्निः

छन्दः - अनुष्टुप्

स्वरः - यक्ष्मारोगनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन्प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑। पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ॥

स्वर सहित पद पाठ

ताः। अ॒ध॒रात् । उदी॑चीः । आ । अ॒व॒वृ॒त्र॒न् । प्र॒ऽजा॒न॒तीः । प॒थिऽभि॑ः । दे॒व॒ऽयानै॑ः । पर्व॑तस्य । वृ॒ष॒भस्य॑ । अधि॑ । पृ॒ष्ठे । नवा॑ः । च॒र॒न्ति॒ । स॒रित॑ः । पु॒रा॒णीः ॥२.४१॥


स्वर रहित मन्त्र

ता अधरादुदीचीराववृत्रन्प्रजानतीः पथिभिर्देवयानैः। पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥


स्वर रहित पद पाठ

ताः। अधरात् । उदीचीः । आ । अववृत्रन् । प्रऽजानतीः । पथिऽभिः । देवऽयानैः । पर्वतस्य । वृषभस्य । अधि । पृष्ठे । नवाः । चरन्ति । सरितः । पुराणीः ॥२.४१॥