ऋषिः - भृगुः

देवता - अग्निः

छन्दः - अनुष्टुप्

स्वरः - यक्ष्मारोगनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑। ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥

स्वर सहित पद पाठ

ग्राह्या॑ः । गृ॒हाः । सम् । सृ॒ज्य॒न्ते॒ । स्त्रि॒याः । यत् । म्रि॒यते॑ । पति॑ः । ब्र॒ह्मा । ए॒व । वि॒द्वान् । ए॒ष्य᳡ः ।यः । क्र॒व्य॒ऽअद॑म् । नि॒ःऽआ॒दध॑त् ॥२.३९॥


स्वर रहित मन्त्र

ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन्म्रियते पतिः। ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ॥


स्वर रहित पद पाठ

ग्राह्याः । गृहाः । सम् । सृज्यन्ते । स्त्रियाः । यत् । म्रियते । पतिः । ब्रह्मा । एव । विद्वान् । एष्य᳡ः ।यः । क्रव्यऽअदम् । निःऽआदधत् ॥२.३९॥