ऋषिः - भृगुः

देवता - मृत्युः

छन्दः - त्रिष्टुप्

स्वरः - यक्ष्मारोगनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

वै॑श्वदे॒वीं वर्च॑सा॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः। अ॑ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ॥

स्वर सहित पद पाठ

वै॒श्व॒ऽदे॒वीम् । वर्च॑से । आ । र॒भ॒ध्व॒म् । शु॒ध्दाः । भव॑न्तः । शुच॑यः । पा॒व॒काः । अ॒ति॒ऽक्राम॑न्तः । दु॒ःऽइ॒ता । प॒दानि॑ । श॒तम् । हिमा॑ः । सर्व॑ऽवीराः । म॒दे॒म॒ ॥२.२८॥


स्वर रहित मन्त्र

वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः। अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥


स्वर रहित पद पाठ

वैश्वऽदेवीम् । वर्चसे । आ । रभध्वम् । शुध्दाः । भवन्तः । शुचयः । पावकाः । अतिऽक्रामन्तः । दुःऽइता । पदानि । शतम् । हिमाः । सर्वऽवीराः । मदेम ॥२.२८॥