atharvaveda/12/2/27

उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥

उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒य॒: । अश्म॑न्ऽवती । न॒दी । स्य॒न्द॒ते॒ । इ॒यम् । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । अशि॑वा: । शि॒वान् । स्यो॒नान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२७॥

ऋषिः - भृगुः

देवता - मृत्युः

छन्दः - त्रिष्टुप्

स्वरः - यक्ष्मारोगनाशन सूक्त

स्वर सहित मन्त्र

उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥

स्वर सहित पद पाठ

उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒य॒: । अश्म॑न्ऽवती । न॒दी । स्य॒न्द॒ते॒ । इ॒यम् । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । अशि॑वा: । शि॒वान् । स्यो॒नान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२७॥


स्वर रहित मन्त्र

उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम्। अत्रा जहीत ये असन्नशिवाः शिवान्त्स्योनानुत्तरेमाभि वाजान् ॥


स्वर रहित पद पाठ

उत् । तिष्ठत । प्र । तरत । सखाय: । अश्मन्ऽवती । नदी । स्यन्दते । इयम् । अत्र । जहीत । ये । असन् । अशिवा: । शिवान् । स्योनान् । उत् । तरेम । अभि । वाजान् ॥२.२७॥