ऋषिः - भृगुः

देवता - मृत्युः

छन्दः - त्रिष्टुप्

स्वरः - यक्ष्मारोगनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

यथाहा॑न्यनुपू॒र्वं भ॑वन्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्। यथा॑ न॒ पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ॥

स्वर सहित पद पाठ

यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तव॑ः । ऋ॒तुऽभि॑ः । यन्ति॑ । सा॒कम् । यथा॑ । न । पूर्व॑म् । अप॑रः । जहा॑ति । ए॒व । धा॒त॒ः । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥२.२५॥


स्वर रहित मन्त्र

यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति साकम्। यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥


स्वर रहित पद पाठ

यथा । अहानि । अनुऽपूर्वम् । भवन्ति । यथा । ऋतवः । ऋतुऽभिः । यन्ति । साकम् । यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम् ॥२.२५॥