ऋषिः - भृगुः

देवता - मृत्युः

छन्दः - त्रिष्टुप्

स्वरः - यक्ष्मारोगनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य। प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

स्वर सहित पद पाठ

इ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः । न॒ः । अ॒द्य । प्राञ्च॑ः । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥२.२२॥


स्वर रहित मन्त्र

इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य। प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥


स्वर रहित पद पाठ

इमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देवऽहूतिः । नः । अद्य । प्राञ्चः । अगाम । नृतये । हसाय । सुऽवीरासः । विदथम् । आ । वदेम ॥२.२२॥