ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - परानुष्टुप्त्रिष्टुप्

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्या॒मापः॑ परिच॒राः स॑मा॒नीर॑होरा॒त्रे अप्र॑मादं॒ क्षर॑न्ति। सा नो॒ भूमि॒र्भूरि॑धारा॒ पयो॑ दुहा॒मथो॑ उक्षतु॒ वर्च॑सा ॥

स्वर सहित पद पाठ

यस्या॑म् । आप॑ः । प॒रि॒ऽच॒राः । स॒मा॒नीः । अ॒हो॒रा॒त्रे इति॑ । अप्र॑ऽमादम् । क्षर॑न्ति । सा । न॒ः । भूमि॑ः । भूरि॑ऽधारा । पय॑ः । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.९॥


स्वर रहित मन्त्र

यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति। सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥


स्वर रहित पद पाठ

यस्याम् । आपः । परिऽचराः । समानीः । अहोरात्रे इति । अप्रऽमादम् । क्षरन्ति । सा । नः । भूमिः । भूरिऽधारा । पयः । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥१.९॥