ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - प्रस्तारपङ्क्तिः
स्वरः - भूमि सूक्त
याम् । रक्ष॑न्ति । अ॒स्व॒प्नाः । वि॒श्व॒ऽदानी॑म् । दे॒वाः । भूमि॑म् । पृ॒थि॒वीम् । अप्र॑ऽमादम् । सा । न॒ः । मधु॑ । प्रि॒यम् । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.७॥
याम् । रक्षन्ति । अस्वप्नाः । विश्वऽदानीम् । देवाः । भूमिम् । पृथिवीम् । अप्रऽमादम् । सा । नः । मधु । प्रियम् । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥१.७॥