ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - पुरोबार्हता त्रिष्टुप्

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना। यत्त॑ ऊ॒नं तत्त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥

स्वर सहित पद पाठ

त्वम् । अ॒सि॒ । आ॒ऽवप॑नी । जना॑नाम् । अदि॑तिः । का॒म॒ऽदुघा॑ । प॒प्र॒था॒ना । यत् । ते॒ । ऊ॒नम् । तत् । ते॒ । आ । पू॒र॒य॒ति॒ । प्र॒जाऽप॑तिः । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ ॥१.६१॥


स्वर रहित मन्त्र

त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना। यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥


स्वर रहित पद पाठ

त्वम् । असि । आऽवपनी । जनानाम् । अदितिः । कामऽदुघा । पप्रथाना । यत् । ते । ऊनम् । तत् । ते । आ । पूरयति । प्रजाऽपतिः । प्रथमऽजाः । ऋतस्य ॥१.६१॥