ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्रिष्टुप्
स्वरः - भूमि सूक्त
याम् । अ॒नु॒ऽऐच्छ॑त् । ह॒विषा॑ । वि॒श्वऽक॑र्मा । अ॒न्तः । अ॒र्ण॒वे । रज॑सि । प्रऽवि॑ष्टाम् । भु॒मि॒ष्य᳡म् । पात्र॑म् । निऽहि॑तम् । गुहा॑ । यत् । आ॒विः । भोगे॑ । अ॒भ॒व॒त् । मा॒तृ॒मत्ऽभ्य॑ः ॥१.६०॥
याम् । अनुऽऐच्छत् । हविषा । विश्वऽकर्मा । अन्तः । अर्णवे । रजसि । प्रऽविष्टाम् । भुमिष्य᳡म् । पात्रम् । निऽहितम् । गुहा । यत् । आविः । भोगे । अभवत् । मातृमत्ऽभ्यः ॥१.६०॥