ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - अनुष्टुप्

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म्। अ॑भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः ॥

स्वर सहित पद पाठ

अ॒हम् । अ॒स्मि॒ । सह॑मानः । उत्त॑रः । नाम॑ । भूम्या॑म् । अ॒भी॒षाट् । अ॒स्मि॒ । वि॒श्वा॒षाट् । आशा॑म्ऽआशाम् । वि॒ऽस॒स॒हिः ॥१.५४॥


स्वर रहित मन्त्र

अहमस्मि सहमान उत्तरो नाम भूम्याम्। अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥


स्वर रहित पद पाठ

अहम् । अस्मि । सहमानः । उत्तरः । नाम । भूम्याम् । अभीषाट् । अस्मि । विश्वाषाट् । आशाम्ऽआशाम् । विऽससहिः ॥१.५४॥