ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्र्यवसाना षट्पदानुष्टुब्गर्भा ककुम्मती शक्वरी

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्। वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ॥

स्वर सहित पद पाठ

याम् । द्वि॒ऽपाद॑ः । प॒क्षिण॑ः । स॒म्ऽपत॑न्ति । हं॒साः । सु॒ऽप॒र्णाः । श॒कु॒नाः । वयां॑सि । यस्या॑म् । वात॑ः । मा॒त॒रिश्वा॑ । ईयते॑ । रजां॑सि । कृ॒ण्वन् । च्य॒वय॑न् । च॒ । वृ॒क्षान् । वात॑स्य । प्र॒ऽवाम् । उ॒प॒ऽवान् । अनु॑ । वा॒ति॒ । अ॒र्चिः ॥१.५१॥


स्वर रहित मन्त्र

यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि। यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान्। वातस्य प्रवामुपवामनु वात्यर्चिः ॥


स्वर रहित पद पाठ

याम् । द्विऽपादः । पक्षिणः । सम्ऽपतन्ति । हंसाः । सुऽपर्णाः । शकुनाः । वयांसि । यस्याम् । वातः । मातरिश्वा । ईयते । रजांसि । कृण्वन् । च्यवयन् । च । वृक्षान् । वातस्य । प्रऽवाम् । उपऽवान् । अनु । वाति । अर्चिः ॥१.५१॥