ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा जगती
स्वरः - भूमि सूक्त
यस्या॑म् । पूर्वे॑ । पू॒र्व॒ऽज॒नाः । वि॒ऽच॒क्रि॒रे । यस्या॑म् । दे॒वाः । असु॑रान् । अ॒भि॒ऽअव॑र्तयन् । गवा॑म् । अश्वा॑नाम् । वय॑सः । च॒ । वि॒ऽस्था । भग॑म्। वर्च॑ः । पृ॒थि॒वी । न॒ः । द॒धा॒तु॒ ॥१.५॥
यस्याम् । पूर्वे । पूर्वऽजनाः । विऽचक्रिरे । यस्याम् । देवाः । असुरान् । अभिऽअवर्तयन् । गवाम् । अश्वानाम् । वयसः । च । विऽस्था । भगम्। वर्चः । पृथिवी । नः । दधातु ॥१.५॥