atharvaveda/12/1/5

यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन्। गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ॥

यस्या॑म् । पूर्वे॑ । पू॒र्व॒ऽज॒ना: । वि॒ऽच॒क्रि॒रे । यस्या॑म् । दे॒वा: । असु॑रान् । अ॒भि॒ऽअव॑र्तयन् । गवा॑म् । अश्वा॑नाम् । वय॑स: । च॒ । वि॒ऽस्था । भग॑म्। वर्च॑: । पृ॒थि॒वी । न॒: । द॒धा॒तु॒ ॥१.५॥

ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्र्यवसाना षट्पदा जगती

स्वरः - भूमि सूक्त

स्वर सहित मन्त्र

यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन्। गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ॥

स्वर सहित पद पाठ

यस्या॑म् । पूर्वे॑ । पू॒र्व॒ऽज॒ना: । वि॒ऽच॒क्रि॒रे । यस्या॑म् । दे॒वा: । असु॑रान् । अ॒भि॒ऽअव॑र्तयन् । गवा॑म् । अश्वा॑नाम् । वय॑स: । च॒ । वि॒ऽस्था । भग॑म्। वर्च॑: । पृ॒थि॒वी । न॒: । द॒धा॒तु॒ ॥१.५॥


स्वर रहित मन्त्र

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन्। गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥


स्वर रहित पद पाठ

यस्याम् । पूर्वे । पूर्वऽजना: । विऽचक्रिरे । यस्याम् । देवा: । असुरान् । अभिऽअवर्तयन् । गवाम् । अश्वानाम् । वयस: । च । विऽस्था । भगम्। वर्च: । पृथिवी । न: । दधातु ॥१.५॥