ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - षट्पदानुष्टुब्गर्भा परातिशक्वरी
स्वरः - भूमि सूक्त
ये । ते॒ । पन्था॑नः । ब॒हव॑ः । ज॒न॒ऽअय॑नाः । रथ॑स्य । वर्त्म॑ । अन॑सः । च॒ । यात॑वे । यैः । स॒म्ऽच॑रन्ति । उ॒भये॑ । भ॒द्र॒ऽपा॒पाः । तम् । पन्था॑नम् । ज॒ये॒म॒ । अ॒न॒मि॒त्रम् । अ॒त॒स्क॒रम् । यत् । शि॒वम् । तेन॑ । न॒ः । मृ॒ड॒ ॥१.४७॥
ये । ते । पन्थानः । बहवः । जनऽअयनाः । रथस्य । वर्त्म । अनसः । च । यातवे । यैः । सम्ऽचरन्ति । उभये । भद्रऽपापाः । तम् । पन्थानम् । जयेम । अनमित्रम् । अतस्करम् । यत् । शिवम् । तेन । नः । मृड ॥१.४७॥