ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - षट्पदानुष्टुब्गर्भा पराशक्वरी
स्वरः - भूमि सूक्त
यः । ते॒ । स॒र्पः । वृश्चि॑कः । तृ॒ष्टऽदं॑श्मा । हे॒म॒न्तऽज॑ब्धः । भृ॒म॒लः । गुहा॑ । शये॑ । क्रिमि॑ः । जिन्व॑त् । पृ॒थि॒वि॒ । यत्ऽय॑त् । एज॑ति । प्रा॒वृषि॑ । तत् । न॒ः । सर्प॑त् । मा । उप॑ । सृ॒प॒त् । यत् । शि॒वम् । तेन॑ । न॒ः । मृ॒ड॒ ॥१.४६॥
यः । ते । सर्पः । वृश्चिकः । तृष्टऽदंश्मा । हेमन्तऽजब्धः । भृमलः । गुहा । शये । क्रिमिः । जिन्वत् । पृथिवि । यत्ऽयत् । एजति । प्रावृषि । तत् । नः । सर्पत् । मा । उप । सृपत् । यत् । शिवम् । तेन । नः । मृड ॥१.४६॥