atharvaveda/12/1/43

यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑। प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥

यस्या॑: । पुर॑: । दे॒वऽकृ॑ता: । क्षेत्रे॑ । यस्या॑: । वि॒ऽकु॒र्वते॑ । प्र॒जाऽप॑ति: । पृ॒थि॒वीम् । वि॒श्वऽग॑र्भाम् । आशा॑म्ऽआशाम् । रण्या॑म् । न॒: । कृ॒णो॒तु॒ ॥१.४३॥

ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - विराडास्तारपङ्क्तिः

स्वरः - भूमि सूक्त

स्वर सहित मन्त्र

यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑। प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥

स्वर सहित पद पाठ

यस्या॑: । पुर॑: । दे॒वऽकृ॑ता: । क्षेत्रे॑ । यस्या॑: । वि॒ऽकु॒र्वते॑ । प्र॒जाऽप॑ति: । पृ॒थि॒वीम् । वि॒श्वऽग॑र्भाम् । आशा॑म्ऽआशाम् । रण्या॑म् । न॒: । कृ॒णो॒तु॒ ॥१.४३॥


स्वर रहित मन्त्र

यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते। प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥


स्वर रहित पद पाठ

यस्या: । पुर: । देवऽकृता: । क्षेत्रे । यस्या: । विऽकुर्वते । प्रजाऽपति: । पृथिवीम् । विश्वऽगर्भाम् । आशाम्ऽआशाम् । रण्याम् । न: । कृणोतु ॥१.४३॥