ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा ककुम्मती शक्वरी
स्वरः - भूमि सूक्त
यस्या॑म् । गाय॑न्ति । नृत्य॑न्ति । भूम्या॑म् । मर्त्या॑ः । विऽऐ॑लबाः । यु॒ध्यन्ते॑ । यस्या॑म् । आ॒ऽक्र॒न्दः । यस्या॑म् । वद॑ति । दु॒न्दु॒भिः । सा । न॒ः । भूमि॑ः । प्र । नु॒द॒ता॒म् । स॒ऽपत्ना॑न् । अ॒स॒प॒त्न॒म् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.४१॥
यस्याम् । गायन्ति । नृत्यन्ति । भूम्याम् । मर्त्याः । विऽऐलबाः । युध्यन्ते । यस्याम् । आऽक्रन्दः । यस्याम् । वदति । दुन्दुभिः । सा । नः । भूमिः । प्र । नुदताम् । सऽपत्नान् । असपत्नम् । मा । पृथिवी । कृणोतु ॥१.४१॥