atharvaveda/12/1/41

यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यैलबाः। यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्यां॒ वद॑ति दुन्दु॒भिः। सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ॥

यस्या॑म् । गाय॑न्ति । नृत्य॑न्ति । भूम्या॑म् । मर्त्या॑: । विऽऐ॑लबा: । यु॒ध्यन्ते॑ । यस्या॑म् । आ॒ऽक्र॒न्द: । यस्या॑म् । वद॑ति । दु॒न्दु॒भि: । सा । न॒: । भूमि॑: । प्र । नु॒द॒ता॒म् । स॒ऽपत्ना॑न् । अ॒स॒प॒त्न॒म् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.४१॥

ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्र्यवसाना षट्पदा ककुम्मती शक्वरी

स्वरः - भूमि सूक्त

स्वर सहित मन्त्र

यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यैलबाः। यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्यां॒ वद॑ति दुन्दु॒भिः। सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ॥

स्वर सहित पद पाठ

यस्या॑म् । गाय॑न्ति । नृत्य॑न्ति । भूम्या॑म् । मर्त्या॑: । विऽऐ॑लबा: । यु॒ध्यन्ते॑ । यस्या॑म् । आ॒ऽक्र॒न्द: । यस्या॑म् । वद॑ति । दु॒न्दु॒भि: । सा । न॒: । भूमि॑: । प्र । नु॒द॒ता॒म् । स॒ऽपत्ना॑न् । अ॒स॒प॒त्न॒म् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.४१॥


स्वर रहित मन्त्र

यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः। युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः। सा नो भूमिः प्र णुदतां सपत्नानसपत्नं मा पृथिवी कृणोतु ॥


स्वर रहित पद पाठ

यस्याम् । गायन्ति । नृत्यन्ति । भूम्याम् । मर्त्या: । विऽऐलबा: । युध्यन्ते । यस्याम् । आऽक्रन्द: । यस्याम् । वदति । दुन्दुभि: । सा । न: । भूमि: । प्र । नुदताम् । सऽपत्नान् । असपत्नम् । मा । पृथिवी । कृणोतु ॥१.४१॥