atharvaveda/12/1/4

यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्नं कृ॒ष्टयः॑ संबभू॒वुः। या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त्सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ॥

यस्या॑: । चत॑स्र: । प्र॒ऽदिश॑: । पृ॒थि॒व्या: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । या । बिभ॑र्ति । ब॒हु॒ऽधा । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । गोषु॑ । अपि॑ । अन्ने॑ । द॒धा॒तु॒ ॥१.४॥

ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्र्यवसाना षट्पदा जगती

स्वरः - भूमि सूक्त

स्वर सहित मन्त्र

यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्नं कृ॒ष्टयः॑ संबभू॒वुः। या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त्सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ॥

स्वर सहित पद पाठ

यस्या॑: । चत॑स्र: । प्र॒ऽदिश॑: । पृ॒थि॒व्या: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । या । बिभ॑र्ति । ब॒हु॒ऽधा । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । गोषु॑ । अपि॑ । अन्ने॑ । द॒धा॒तु॒ ॥१.४॥


स्वर रहित मन्त्र

यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः। या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥


स्वर रहित पद पाठ

यस्या: । चतस्र: । प्रऽदिश: । पृथिव्या: । यस्याम् । अन्नम् । कृष्टय: । सम्ऽबभूवु: । या । बिभर्ति । बहुऽधा । प्राणत् । एजत् । सा । न: । भूमि: । गोषु । अपि । अन्ने । दधातु ॥१.४॥