ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - अनुष्टुप्

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्यां॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यो॒ गा उदा॑नृ॒चुः। स॒प्त स॒त्रेण॑ वे॒धसो॑ य॒ज्ञेन॒ तप॑सा स॒ह ॥

स्वर सहित पद पाठ

यस्या॑म् । पूर्वे॑ । भू॒त॒ऽकृत॑ः । ऋष॑यः । गाः । उत् । आ॒नृ॒चुः । स॒प्त । स॒त्त्रेण॑ । वे॒धस॑ः । य॒ज्ञेन॑ । तप॑सा । स॒ह ॥१.३९॥


स्वर रहित मन्त्र

यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः। सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥


स्वर रहित पद पाठ

यस्याम् । पूर्वे । भूतऽकृतः । ऋषयः । गाः । उत् । आनृचुः । सप्त । सत्त्रेण । वेधसः । यज्ञेन । तपसा । सह ॥१.३९॥