atharvaveda/12/1/34
ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्बृगतीगर्भातिजगती
स्वरः - भूमि सूक्त
यत् । शया॑न: । प॒रि॒ऽआव॑र्ते । दक्षि॑णम् । स॒व्यम् । अ॒भि । भू॒मे॒ । पा॒र्श्वम् । उ॒त्ता॒ना: । त्वा॒ । प्र॒तीची॑म् । यत् । पृ॒ष्टीभि॑: । अ॒धि॒ऽशेम॑हे । मा । हिं॒सी॒: । तत्र॑ । न॒: । भू॒मे॒ । सर्व॑स्य । प्र॒ति॒ऽशी॒व॒रि॒ ॥१.३४॥
यत् । शयान: । परिऽआवर्ते । दक्षिणम् । सव्यम् । अभि । भूमे । पार्श्वम् । उत्ताना: । त्वा । प्रतीचीम् । यत् । पृष्टीभि: । अधिऽशेमहे । मा । हिंसी: । तत्र । न: । भूमे । सर्वस्य । प्रतिऽशीवरि ॥१.३४॥