ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्रिष्टुप्

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात्। स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥

स्वर सहित पद पाठ

याः । ते॒ । प्राची॑ः । प्र॒ऽदिश॑ः । याः । उदी॑चीः । याः । ते॒ । भू॒मे॒ । अ॒ध॒रात् । याः । च॒ । प॒श्चात् । स्यो॒नाः । ताः । मह्य॑म् । चर॑ते । भ॒व॒न्तु॒ । मा । नि । प॒प्त॒म् । भुव॑ने । शि॒श्रि॒याणः ॥१.३१॥


स्वर रहित मन्त्र

यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्। स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥


स्वर रहित पद पाठ

याः । ते । प्राचीः । प्रऽदिशः । याः । उदीचीः । याः । ते । भूमे । अधरात् । याः । च । पश्चात् । स्योनाः । ताः । मह्यम् । चरते । भवन्तु । मा । नि । पप्तम् । भुवने । शिश्रियाणः ॥१.३१॥