ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्र्यवसाना सप्तपदोष्णिगनुष्टुब्गर्भा शक्वरी

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑। यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑। क॒न्यायां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

स्वर सहित पद पाठ

यः । ते॒ । ग॒न्धः । पुरु॑षेषु । स्त्री॒षु । पु॒म्ऽसु । भग॑ः । रुचि॑ः । यः । अश्वे॑षु । वी॒रेषु॑ । यः । मृ॒गेषु॑ । उ॒त । ह॒स्तिषु॑ । क॒न्या᳡याम् । वर्च॑ः । यत् । भू॒मे॒ । तेन॑ । अ॒स्मान् । अपि । सम् । सृ॒ज॒ । मा । न॒ः । द्वि॒क्ष॒त॒ । कः । च॒न ॥२.२५॥


स्वर रहित मन्त्र

यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः। यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु। कन्यायां वर्चो यद्भूमे तेनास्माँ अपि सं सृज मा नो द्विक्षत कश्चन ॥


स्वर रहित पद पाठ

यः । ते । गन्धः । पुरुषेषु । स्त्रीषु । पुम्ऽसु । भगः । रुचिः । यः । अश्वेषु । वीरेषु । यः । मृगेषु । उत । हस्तिषु । कन्या᳡याम् । वर्चः । यत् । भूमे । तेन । अस्मान् । अपि । सम् । सृज । मा । नः । द्विक्षत । कः । चन ॥२.२५॥