ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - पञ्चपदानुष्टुब्गर्भा जगती

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्ते॑ ग॒न्धः पुष्क॑रमावि॒वेश॒ यं सं॑ज॒भ्रुः सू॒र्याया॑ विवा॒हे। अम॑र्त्याः पृथिवि ग॒न्धमग्रे॒ तेन॒ मा सु॑र॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

स्वर सहित पद पाठ

यः । ते॒ । ग॒न्धः । पुष्क॑रम् । आ॒ऽवि॒वेश॑ । यम् । स॒म्ऽज॒भ्रुः । सू॒र्याया॑ः । वि॒ऽवा॒हे । अम॑र्त्याः । पृ॒थि॒वि॒ । ग॒न्धम् । अग्रे॑ । तेन॑ । मा॒ । सु॒र॒भिम् । कृ॒णु॒ । मा । न॒ः । द्वि॒क्ष॒त॒ । कः । च॒न ॥१.२४॥


स्वर रहित मन्त्र

यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे। अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥


स्वर रहित पद पाठ

यः । ते । गन्धः । पुष्करम् । आऽविवेश । यम् । सम्ऽजभ्रुः । सूर्यायाः । विऽवाहे । अमर्त्याः । पृथिवि । गन्धम् । अग्रे । तेन । मा । सुरभिम् । कृणु । मा । नः । द्विक्षत । कः । चन ॥१.२४॥