ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - पञ्चपदातिजगती

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑। यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

स्वर सहित पद पाठ

यः । ते॒ । ग॒न्धः । पृ॒थि॒वि॒ । स॒म्ऽब॒भूव॑ । यम् । बिभ्र॑ति । ओष॑धयः । यम् । आप॑ः । यम् । ग॒न्ध॒र्वाः । अ॒प्स॒रस॑ः । च॒ । भे॒जि॒रे । तेन॑ । मा॒ । सु॒र॒भिम् । कृ॒णु॒ । मा । न॒ः । द्वि॒क्षत । कः । चन ॥१.२३॥


स्वर रहित मन्त्र

यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः। यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥


स्वर रहित पद पाठ

यः । ते । गन्धः । पृथिवि । सम्ऽबभूव । यम् । बिभ्रति । ओषधयः । यम् । आपः । यम् । गन्धर्वाः । अप्सरसः । च । भेजिरे । तेन । मा । सुरभिम् । कृणु । मा । नः । द्विक्षत । कः । चन ॥१.२३॥