ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - त्र्यवसाना षट्पदा विराडतिजगती

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम्। भूम्यां॑ मनु॒ष्या॑ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑। सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ॥

स्वर सहित पद पाठ

भूम्या॑म् । दे॒वेभ्य॑ः । द॒द॒ति॒ । य॒ज्ञम् । ह॒व्यम् । अर॑म्ऽकृतम् । भूम्या॑म् । म॒नु॒ष्या᳡ः । जी॒व॒न्ति॒ । स्व॒धया॑ । अन्ने॑न । मर्त्या॑ः । सा । न॒ः । भूमि॑ः । प्रा॒णम् । आयु॑ः । द॒धा॒तु॒ । ज॒रत्ऽअ॑ष्टिम् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.२२॥


स्वर रहित मन्त्र

भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम्। भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः। सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥


स्वर रहित पद पाठ

भूम्याम् । देवेभ्यः । ददति । यज्ञम् । हव्यम् । अरम्ऽकृतम् । भूम्याम् । मनुष्या᳡ः । जीवन्ति । स्वधया । अन्नेन । मर्त्याः । सा । नः । भूमिः । प्राणम् । आयुः । दधातु । जरत्ऽअष्टिम् । मा । पृथिवी । कृणोतु ॥१.२२॥