ऋषिः - अथर्वा

देवता - भूमिः

छन्दः - पञ्चपदा शक्वरी

स्वरः - भूमि सूक्त

PreviousNext
स्वर सहित मन्त्र

त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः। तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ॥

स्वर सहित पद पाठ

त्वत् । जा॒ताः । त्वयि॑ । च॒र॒न्ति॒ । मर्त्या॑ः । त्वम् । बि॒भ॒र्षि॒ः । द्वि॒ऽपद॑ः । त्वम् । चतु॑ःऽपदः । तव॑ । इ॒मे । पृ॒थि॒वि॒ । पञ्च॑ । मा॒न॒वाः । येभ्य॑ः । ज्योति॑ः । अ॒मृत॑म् । मर्त्ये॑भ्यः । उ॒त्ऽयन् । सूर्य॑ः । र॒श्मिऽभि॑ः । आ॒ऽत॒नोति॑ ॥१.१५॥


स्वर रहित मन्त्र

त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः। तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥


स्वर रहित पद पाठ

त्वत् । जाताः । त्वयि । चरन्ति । मर्त्याः । त्वम् । बिभर्षिः । द्विऽपदः । त्वम् । चतुःऽपदः । तव । इमे । पृथिवि । पञ्च । मानवाः । येभ्यः । ज्योतिः । अमृतम् । मर्त्येभ्यः । उत्ऽयन् । सूर्यः । रश्मिऽभिः । आऽतनोति ॥१.१५॥