ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना पञ्चपदा शक्वरी
स्वरः - भूमि सूक्त
यस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माणः । यस्या॑म् । मी॒यन्ते॑ । स्वर॑वः । पृ॒थि॒व्याम् । ऊ॒र्ध्वाः । शु॒क्राः । आऽहु॑त्याः । पु॒रस्ता॑त् । सा । न॒ः । भूमि॑ः । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥
यस्याम् । वेदिम् । परिऽगृह्णन्ति । भूम्याम् । यस्याम् । यज्ञम् । तन्वते । विश्वऽकर्माणः । यस्याम् । मीयन्ते । स्वरवः । पृथिव्याम् । ऊर्ध्वाः । शुक्राः । आऽहुत्याः । पुरस्तात् । सा । नः । भूमिः । वर्धयत् । वर्धमाना ॥१.१३॥