ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना पञ्चपदा शक्वरी
स्वरः - भूमि सूक्त
यत् । ते॒ । मध्य॑म् । पृ॒थि॒वि॒ । यत् । च॒ । नभ्य॑म् । याः । ते॒ । ऊर्ज॑ः । त॒न्वः । स॒म्ऽब॒भू॒वुः । तासु॑ । न॒ः । धे॒हि॒ । अ॒भि । न॒ः । प॒य॒स्व॒ । मा॒ता । भूमि॑ः । पु॒त्रः । अ॒हम् । पृ॒थि॒व्याः । प॒र्जन्य॑ः । पि॒ता । सः । ऊं॒ इति॑ । न॒ः । पि॒प॒र्तु॒ ॥१.१२॥
यत् । ते । मध्यम् । पृथिवि । यत् । च । नभ्यम् । याः । ते । ऊर्जः । तन्वः । सम्ऽबभूवुः । तासु । नः । धेहि । अभि । नः । पयस्व । माता । भूमिः । पुत्रः । अहम् । पृथिव्याः । पर्जन्यः । पिता । सः । ऊं इति । नः । पिपर्तु ॥१.१२॥