ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्रयवसाना षट्पदा विराडष्टिः
स्वरः - भूमि सूक्त
गि॒रय॑ः । ते॒ । पर्व॑ताः । हि॒मऽव॑न्तः । अर॑ण्यम् । ते॒ । पृ॒थि॒वि॒ । स्यो॒नम् । अ॒स्तु॒ । ब॒भ्रुम् । कृ॒ष्णाम् । रोहि॑णीम् । वि॒श्वऽरू॑पाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । इन्द्र॑ऽगुप्ताम् । अजी॑तः । अह॑तः । अक्ष॑तः । अधि॑ । अ॒स्था॒म् । पृ॒थि॒वीम् । अ॒हम् ॥१.११॥
गिरयः । ते । पर्वताः । हिमऽवन्तः । अरण्यम् । ते । पृथिवि । स्योनम् । अस्तु । बभ्रुम् । कृष्णाम् । रोहिणीम् । विश्वऽरूपाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । इन्द्रऽगुप्ताम् । अजीतः । अहतः । अक्षतः । अधि । अस्थाम् । पृथिवीम् । अहम् ॥१.११॥