ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा जगती
स्वरः - भूमि सूक्त
याम् । अ॒श्विनौ॑ । अमि॑माताम् । विष्णु॑ः । यस्या॑म् । वि॒ऽच॒क्र॒मे । इन्द्र॑ः । याम् । च॒क्रे । आ॒त्मने॑ । अ॒न॒मि॒त्राम् । शची॒ऽपति॑ः । सा । न॒ः । भूमि॑ः । वि । सृ॒ज॒ता॒म् । मा॒ता । पु॒त्राय॑ । मे॒ । पय॑ः ॥१.१०॥
याम् । अश्विनौ । अमिमाताम् । विष्णुः । यस्याम् । विऽचक्रमे । इन्द्रः । याम् । चक्रे । आत्मने । अनमित्राम् । शचीऽपतिः । सा । नः । भूमिः । वि । सृजताम् । माता । पुत्राय । मे । पयः ॥१.१०॥