atharvaveda/11/9/26

तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥

तेषा॑म् । सर्वे॑षाम् । ईशा॑ना: । उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । इ॒मम् । स॒म्ऽग्रा॒मम् । स॒म्ऽजित्य॑ । य॒था॒ऽलो॒कम् । वि । ति॒ष्ठ॒ध्व॒म् ॥११.२६॥

ऋषिः - काङ्कायनः

देवता - अर्बुदिः

छन्दः - पथ्यापङ्क्तिः

स्वरः - शत्रुनिवारण सूक्त

स्वर सहित मन्त्र

तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥

स्वर सहित पद पाठ

तेषा॑म् । सर्वे॑षाम् । ईशा॑ना: । उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । इ॒मम् । स॒म्ऽग्रा॒मम् । स॒म्ऽजित्य॑ । य॒था॒ऽलो॒कम् । वि । ति॒ष्ठ॒ध्व॒म् ॥११.२६॥


स्वर रहित मन्त्र

तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥


स्वर रहित पद पाठ

तेषाम् । सर्वेषाम् । ईशाना: । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥११.२६॥