ऋषिः - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
स्वरः - शत्रुनिवारण सूक्त
वन॒स्पती॑न् । वा॒न॒स्प॒त्यान् । ओष॑धीः । उ॒त । वी॒रुध॑ः । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑ः । स॒र्पान् । दे॒वान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्यः । दृ॒शे । कु॒रु॒ ।उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२४॥
वनस्पतीन् । वानस्पत्यान् । ओषधीः । उत । वीरुधः । गन्धर्वऽअप्सरसः । सर्पान् । देवान् । पुण्यऽजनान् । पितॄन् । सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु ।उत्ऽआरान् । च । प्र । दर्शय ॥११.२४॥