ऋषिः - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
स्वरः - शत्रुनिवारण सूक्त
ये । च॒ । धीरा॑ः । ये । च॒ । अधी॑राः । परा॑ञ्चः । ब॒धि॒राः । च॒ । ये । त॒म॒साः । ये । च॒ । तू॒प॒राः । अथो॒ इति॑ । ब॒स्त॒ऽअ॒भि॒वा॒सिन॑ः। सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्यः । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२२॥
ये । च । धीराः । ये । च । अधीराः । पराञ्चः । बधिराः । च । ये । तमसाः । ये । च । तूपराः । अथो इति । बस्तऽअभिवासिनः। सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.२२॥