ऋषिः - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
स्वरः - शत्रुनिवारण सूक्त
श्व᳡न्ऽवतीः । अ॒प्स॒रस॑ः । रूप॑काः । उ॒त । अ॒र्बु॒दे॒ । अ॒न्त॒ःऽपा॒त्रे । रेरि॑हतीम् । रि॒शाम् । दु॒र्नि॒हि॒त॒ऽए॒षिणी॑म् । सर्वा॑ः । ताः । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्यः । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१५॥
श्व᳡न्ऽवतीः । अप्सरसः । रूपकाः । उत । अर्बुदे । अन्तःऽपात्रे । रेरिहतीम् । रिशाम् । दुर्निहितऽएषिणीम् । सर्वाः । ताः । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.१५॥