ऋषिः - कौरुपथिः

देवता - अध्यात्मम्, मन्युः

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे। तपो॑ ह जज्ञे॒ कर्म॑ण॒स्तत्ते ज्ये॒ष्ठमुपा॑सत ॥

स्वर सहित पद पाठ

तप॑ः । च॒ । ए॒व । आ॒स्ता॒म् । कर्म॑ । च॒ । अ॒न्तः । म॒ह॒त‍ि । अ॒र्ण॒वे । तप॑ः । ह॒ । ज॒ज्ञे॒ । कर्म॑णः । तत् । ते । ज्ये॒ष्ठम् । उप॑ । आ॒स॒त॒ ॥१०.६॥


स्वर रहित मन्त्र

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे। तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥


स्वर रहित पद पाठ

तपः । च । एव । आस्ताम् । कर्म । च । अन्तः । महत‍ि । अर्णवे । तपः । ह । जज्ञे । कर्मणः । तत् । ते । ज्येष्ठम् । उप । आसत ॥१०.६॥