ऋषिः - कौरुपथिः

देवता - अध्यात्मम्, मन्युः

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे। अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ॥

स्वर सहित पद पाठ

सूर्य॑ः । चक्षु॑ः । वात॑ः । प्रा॒णम् । पुरु॑षस्य । वि । भे॒जि॒रे॒ । अथ॑ । अ॒स्य॒ । इत॑रम् । आ॒त्मान॑म् । दे॒वाः । प्र । अ॒य॒च्छ॒न् । अ॒ग्नये॑ ॥१०.३१॥


स्वर रहित मन्त्र

सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे। अथास्येतरमात्मानं देवाः प्रायच्छन्नग्नये ॥


स्वर रहित पद पाठ

सूर्यः । चक्षुः । वातः । प्राणम् । पुरुषस्य । वि । भेजिरे । अथ । अस्य । इतरम् । आत्मानम् । देवाः । प्र । अयच्छन् । अग्नये ॥१०.३१॥