ऋषिः - कौरुपथिः

देवता - अध्यात्मम्, मन्युः

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒दा त्वष्टा॒ व्यतृ॑णत्पि॒ता त्वष्टु॒र्य उत्त॑रः। गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥

स्वर सहित पद पाठ

य॒दा । त्वष्टा॑ । वि॒ऽअतृ॑णत् । पि॒ता । त्वष्टु॑ः । यः । उत्त॑रः । गृ॒हम् । कृ॒त्वा । मर्त्य॑म् । दे॒वाः । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.१८॥


स्वर रहित मन्त्र

यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः। गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥


स्वर रहित पद पाठ

यदा । त्वष्टा । विऽअतृणत् । पिता । त्वष्टुः । यः । उत्तरः । गृहम् । कृत्वा । मर्त्यम् । देवाः । पुरुषम् । आ । अविशन् ॥१०.१८॥