ऋषिः - कौरुपथिः

देवता - अध्यात्मम्, मन्युः

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

कुतः॒ केशा॒न्कुतः॒ स्नाव॒ कुतो॒ अस्थी॒न्याभ॑रत्। अङ्गा॒ पर्वा॑णि म॒ज्जानं॒ को मां॒सं कुत॒ आभ॑रत् ॥

स्वर सहित पद पाठ

कुत॑ः । केशा॑न् । कुत॑ः । स्नाव॑ः । कुत॑ः । अस्थी॑नि । आ । अ॒भ॒र॒त् । अङ्गा॑ । पर्वा॑णि । म॒ज्जान॑म् । कः । मां॒सम् । कुत॑ः । आ । अ॒भ॒र॒त् ॥१०.१२॥


स्वर रहित मन्त्र

कुतः केशान्कुतः स्नाव कुतो अस्थीन्याभरत्। अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ॥


स्वर रहित पद पाठ

कुतः । केशान् । कुतः । स्नावः । कुतः । अस्थीनि । आ । अभरत् । अङ्गा । पर्वाणि । मज्जानम् । कः । मांसम् । कुतः । आ । अभरत् ॥१०.१२॥