ऋषिः - कौरुपथिः

देवता - अध्यात्मम्, मन्युः

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

यन्म॒न्युर्जा॒यामाव॑हत्संक॒ल्पस्य॑ गृ॒हादधि॑। क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोभ॑वत् ॥

स्वर सहित पद पाठ

यत् । म॒न्युः । जा॒याम् । आ॒ऽअव॑हत् । स॒म्ऽक॒ल्पस्य॑ । गृ॒हात् । अधि॑ । के । आ॒स॒न् । जन्या॑ः । के । व॒राः । कः । ऊं॒ इति॑ । ज्ये॒ष्ठ॒ऽव॒रः । अ॒भ॒व॒त् ॥१०.१॥


स्वर रहित मन्त्र

यन्मन्युर्जायामावहत्संकल्पस्य गृहादधि। क आसं जन्याः के वराः क उ ज्येष्ठवरोभवत् ॥


स्वर रहित पद पाठ

यत् । मन्युः । जायाम् । आऽअवहत् । सम्ऽकल्पस्य । गृहात् । अधि । के । आसन् । जन्याः । के । वराः । कः । ऊं इति । ज्येष्ठऽवरः । अभवत् ॥१०.१॥