ऋषिः - अथर्वा

देवता - उच्छिष्टः, अध्यात्मम्

छन्दः - अनुष्टुप्

स्वरः - उच्छिष्ट ब्रह्म सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑र्धमा॒साश्च॒ मासा॑श्चार्त॒वा ऋ॒तुभिः॑ स॒ह। उच्छि॑ष्टे घो॒षिणी॒रापः॑ स्तनयि॒त्नुः श्रुति॑र्म॒ही ॥

स्वर सहित पद पाठ

अ॒र्ध॒ऽमा॒साः । च॒ । मासा॑ः । च॒ । आ॒र्त॒वाः । ऋ॒तुऽभि॑ः । स॒ह । उत्ऽशि॑ष्टे । घो॒षिणी॑ः । आप॑ः । स्त॒न॒यि॒त्नुः । श्रुति॑ः । म॒ही ॥९.२०॥


स्वर रहित मन्त्र

अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह। उच्छिष्टे घोषिणीरापः स्तनयित्नुः श्रुतिर्मही ॥


स्वर रहित पद पाठ

अर्धऽमासाः । च । मासाः । च । आर्तवाः । ऋतुऽभिः । सह । उत्ऽशिष्टे । घोषिणीः । आपः । स्तनयित्नुः । श्रुतिः । मही ॥९.२०॥