ऋषिः - अथर्वा

देवता - उच्छिष्टः, अध्यात्मम्

छन्दः - अनुष्टुप्

स्वरः - उच्छिष्ट ब्रह्म सूक्त

PreviousNext
स्वर सहित मन्त्र

नव॒ भूमीः॑ समु॒द्रा उच्छि॑ष्टेऽधि॑ श्रि॒ता दिवः॑। आ॒ सूर्यो॑ भा॒त्युच्छि॑ष्टेऽहोरा॒त्रे अपि॒ तन्मयि॑ ॥

स्वर सहित पद पाठ

नव॑ । भूमी॑ः । स॒मु॒द्राः । उत्ऽशि॑ष्टे । अधि॑ । श्रि॒ताः । दिव॑ः । आ । सूर्य॑ः । भा॒ति॒ । उत्ऽशि॑ष्टे । अ॒हो॒रा॒त्रे इति॑ । अपि॑ । तत् । मयि॑ ॥९.१४॥


स्वर रहित मन्त्र

नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः। आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन्मयि ॥


स्वर रहित पद पाठ

नव । भूमीः । समुद्राः । उत्ऽशिष्टे । अधि । श्रिताः । दिवः । आ । सूर्यः । भाति । उत्ऽशिष्टे । अहोरात्रे इति । अपि । तत् । मयि ॥९.१४॥