ऋषिः - अथर्वा

देवता - उच्छिष्टः, अध्यात्मम्

छन्दः - अनुष्टुप्

स्वरः - उच्छिष्ट ब्रह्म सूक्त

PreviousNext
स्वर सहित मन्त्र

सू॒नृता॒ संन॑तिः॒ क्षेमः॑ स्व॒धोर्जामृतं॒ सहः॑। उच्छि॑ष्टे॒ सर्वे॑ प्र॒त्यञ्चः॒ कामाः॒ कामे॑न तातृपुः ॥

स्वर सहित पद पाठ

सू॒नृता॑ । सम्ऽन॑तिः । क्षेम॑ः । स्व॒धा । ऊ॒र्जा । अ॒मृत॑म् । सह॑ः । उत्ऽशि॑ष्टे । सर्वे॑ । प्र॒त्यञ्च॑ः । कामा॑ः । कामे॑न । त॒तृ॒पु॒ः ॥ ९.१३॥


स्वर रहित मन्त्र

सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः। उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥


स्वर रहित पद पाठ

सूनृता । सम्ऽनतिः । क्षेमः । स्वधा । ऊर्जा । अमृतम् । सहः । उत्ऽशिष्टे । सर्वे । प्रत्यञ्चः । कामाः । कामेन । ततृपुः ॥ ९.१३॥