ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः। श॒कुन्ता॑न्प॒क्षिणो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

पार्थि॑वाः । दि॒व्याः । प॒शव॑ः । आ॒र॒ण्याः । उ॒त । ये । मृ॒गाः । श॒कुन्ता॑न् । प॒क्षिण॑ः । ब्रू॒म॒ः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.८॥


स्वर रहित मन्त्र

पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः। शकुन्तान्पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

पार्थिवाः । दिव्याः । पशवः । आरण्याः । उत । ये । मृगाः । शकुन्तान् । पक्षिणः । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥८.८॥