ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

ग॑न्धर्वाप्स॒रसो॑ ब्रूमो अ॒श्विना॒ ब्रह्म॑ण॒स्पति॑म्। अ॑र्य॒मा नाम॒ यो दे॒वस्ते॑ नो मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑ः । ब्रू॒म॒ः । अ॒श्विना॑ । ब्रह्म॑णः । पति॑म् । अ॒र्य॒मा । नाम॑ । यः । दे॒वः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.४॥


स्वर रहित मन्त्र

गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम्। अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

गन्धर्वऽअप्सरसः । ब्रूमः । अश्विना । ब्रह्मणः । पतिम् । अर्यमा । नाम । यः । देवः । ते । नः । मुञ्चन्तु । अंहसः ॥८.४॥