ऋषिः - शन्तातिः

देवता - चन्द्रमा अथवा मन्त्रोक्ताः

छन्दः - अनुष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

सर्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑। सर्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

सर्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒ः । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृध॑ः । सर्वा॑भिः । पत्नी॑भिः । स॒ह । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥८.२०॥


स्वर रहित मन्त्र

सर्वान्देवानिदं ब्रूमः सत्यसंधानृतावृधः। सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

सर्वान् । देवान् । इदम् । ब्रूमः । सत्यऽसंधान् । ऋतऽवृधः । सर्वाभिः । पत्नीभिः । सह । ते । नः । मुञ्चन्तु । अंहसः ॥८.२०॥